मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८६, ऋक् ४२

संहिता

सो अग्रे॒ अह्नां॒ हरि॑र्हर्य॒तो मद॒ः प्र चेत॑सा चेतयते॒ अनु॒ द्युभि॑ः ।
द्वा जना॑ या॒तय॑न्न॒न्तरी॑यते॒ नरा॑ च॒ शंसं॒ दैव्यं॑ च ध॒र्तरि॑ ॥

पदपाठः

सः । अग्रे॑ । अह्ना॑म् । हरिः॑ । ह॒र्य॒तः । मदः॑ । प्र । चेत॑सा । चे॒त॒य॒ते॒ । अनु॑ । द्युऽभिः॑ ।
द्वा । जना॑ । या॒तय॑न् । अ॒न्तः । ई॒य॒ते॒ । नरा॒शंस॑म् । च॒ । दैव्य॑म् । च॒ । ध॒र्तरि॑ ॥

सायणभाष्यम्

ससोमोग्ने सर्वेषां संमुखं चेतसा प्राणिनां चेतनेनसह अह्नां द्युभीर्दीप्तिभिः अनुप्रचे- तयते अनुप्रज्ञापयते यद्वा अह्नामग्ने अग्रभागे प्रातरित्यर्थः स्तोतॄणां चेतसा प्रज्ञानेन द्युभिर्दीप्तिभिः स्तुतिभिश्चानु प्रचेतयते । कीदृशः सहरिर्हरितवर्णः हर्यतः कान्तः मदो- मदकरः । किंच द्वाजना द्वौजनौ स्तोतारं यष्टारंच याचयन् प्रापयन् स्वविहितेनकर्मणा लौकिकवैदिकौ द्वौजनौ द्रष्टव्यौ एवंकुर्वन्नन्तर्द्यावापृथिव्योर्मध्ये ईयते गच्छति । ईङ्गतौ । किंकुर्वन् नराशंसैः नरैः शंसनीयं मानुषमित्यर्थः दैव्यंचोभयविधं धनं धर्तरि धारके यज- माने प्रेरयन्नितिशेषः ॥ ४२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०