मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८६, ऋक् ४४

संहिता

वि॒प॒श्चिते॒ पव॑मानाय गायत म॒ही न धारात्यन्धो॑ अर्षति ।
अहि॒र्न जू॒र्णामति॑ सर्पति॒ त्वच॒मत्यो॒ न क्रीळ॑न्नसर॒द्वृषा॒ हरि॑ः ॥

पदपाठः

वि॒पः॒ऽचिते॑ । पव॑मानाय । गा॒य॒त॒ । म॒ही । न । धारा॑ । अति॑ । अन्धः॑ । अ॒र्ष॒ति॒ ।
अहिः॑ । न । जू॒र्णाम् । अति॑ । स॒र्प॒ति॒ । त्वच॑म् । अत्यः॑ । न । क्रीळ॑न् । अ॒स॒र॒त् । वृषा॑ । हरिः॑ ॥

सायणभाष्यम्

हे ऋत्विजः विपश्चिते मेधाविने पवमानाय पूयमानाय गायत स्तुतिंकुरुत । सच विप श्चित्सोमः महीनधारा महतीवर्षधारेव अन्धोन्नंरसात्मकं अत्यर्षति अहिर्न अहिरिव जूर्णां जंस्तीत्वचमतिसर्पति अतिमुंचति अभिषवादिकर्मणा त्वचंमुंचतीत्यर्थः । तद्वदतिसर्पति धारा दशाद्यवित्रात् अत्योन अश्वइव क्रीळन् असरत् सरति गच्छति द्रोणकलशम् । वृषा वर्षकः कामत्वी हरि र्हरितवर्णोरसः ॥ ४४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०