मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८६, ऋक् ४७

संहिता

प्र ते॒ धारा॒ अत्यण्वा॑नि मे॒ष्य॑ः पुना॒नस्य॑ सं॒यतो॑ यन्ति॒ रंह॑यः ।
यद्गोभि॑रिन्दो च॒म्वो॑ः सम॒ज्यस॒ आ सु॑वा॒नः सो॑म क॒लशे॑षु सीदसि ॥

पदपाठः

प्र । ते॒ । धाराः॑ । अति॑ । अण्वा॑नि । मे॒ष्यः॑ । पु॒ना॒नस्य॑ । स॒म्ऽयतः॑ । य॒न्ति॒ । रंह॑यः ।
यत् । गोभिः॑ । इ॒न्दो॒ इति॑ । च॒म्वोः॑ । स॒म्ऽअ॒ज्यसे॑ । आ । सु॒वा॒नः । सो॒म॒ । क॒लशे॑षु । सी॒द॒सि॒ ॥

सायणभाष्यम्

पुनानस्य पूयमानस्य ते तव संयतः संगृह्यमाणाः रंहयोरंहणस्वभावा धाराः मेष्यः अण्वानि अणूनि लोमानि प्रतियन्ति अतिक्रम्यगच्छन्ति हे इन्दो सोम यद्यदा गोभिरु- दकैः चम्वोः अधिषवणफलकयोरुपरि समज्यते तदानीं हे सोम सुवानः सूयमानस्त्वं कलशेष्वासीदसि ॥ ४७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१