मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ८९, ऋक् २

संहिता

राजा॒ सिन्धू॑नामवसिष्ट॒ वास॑ ऋ॒तस्य॒ नाव॒मारु॑ह॒द्रजि॑ष्ठाम् ।
अ॒प्सु द्र॒प्सो वा॑वृधे श्ये॒नजू॑तो दु॒ह ईं॑ पि॒ता दु॒ह ईं॑ पि॒तुर्जाम् ॥

पदपाठः

राजा॑ । सिन्धू॑नाम् । अ॒व॒सि॒ष्ट॒ । वासः॑ । ऋ॒तस्य॑ । नाव॑म् । आ । अ॒रु॒ह॒त् । रजि॑ष्ठाम् ।
अ॒प्ऽसु । द्र॒प्सः । व॒वृ॒धे॒ । श्ये॒नऽजू॑तः । दु॒हे । ई॒म् । पि॒ता । दु॒हे । ई॒म् । पि॒तुः । जाम् ॥

सायणभाष्यम्

अयं राजां सोमः सिंधूनामुदकानां क्षीरादिस्यंदिनीनां गवांवासो वसनथानीयं क्षीरा- ख्यं श्रयणद्रव्यं अवसिष्ट आच्छादयति तथाकृत्वा रजिष्ठां ऋजुतरां ऋतस्य यज्ञस्य नाव- मारुहत् आरोहति । सद्रप्सः सोमरसः श्येनेनापहृतोरसोप्सुवसतीवरीषु ववृधे वर्धते । ईं तमिमं पितुः पालकात् पितृस्थानीयात् द्युलोकात् जां जातमपत्यं सोमं ईमयं पितापाल- को लोकोदुहे दोग्धिरसम् । तथा अध्वर्युरपि दुहेदोग्धि अथवोक्तलक्षणमेवं सोमं पिता पालकः स्वामी यजमानोदोग्धि फलम् । तथा दुहे अध्वर्युरपि रसंदुहे । यद्वा दुहेईमिति पुनरुक्तिरादरार्था ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५