मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९०, ऋक् १

संहिता

प्र हि॑न्वा॒नो ज॑नि॒ता रोद॑स्यो॒ रथो॒ न वाजं॑ सनि॒ष्यन्न॑यासीत् ।
इन्द्रं॒ गच्छ॒न्नायु॑धा सं॒शिशा॑नो॒ विश्वा॒ वसु॒ हस्त॑योरा॒दधा॑नः ॥

पदपाठः

प्र । हि॒न्वा॒नः । ज॒नि॒ता । रोद॑स्योः । रथः॑ । न । वाज॑म् । स॒नि॒ष्यन् । अ॒या॒सी॒त् ।
इन्द्र॑म् । गच्छ॑न् । आयु॑धा । स॒म्ऽशिशा॑नः । विश्वा॑ । वसु॑ । हस्त॑योः । आ॒ऽदधा॑नः ॥

सायणभाष्यम्

हिन्वानः प्रेर्यमाणोध्वर्य्वादिभिः जनिता उत्पादयिता रोदस्योर्द्यावापृथिव्योः । तयो- र्जनयितृत्वं वृष्टिप्रदानहविः प्रापणाभ्याम् । रथोन यथा रथोगच्छति तादृक् सोमोवाजं अन्नं सनिष्यन् दास्यन् प्रायासीत् प्रयच्छति । इन्द्रंगच्छन् प्राप्नुवन् आयुधा आयुधानि संशि- शानः सम्यक् तीक्ष्णीकुर्वन् इन्द्रसाहाय्यगमनार्थं तीक्ष्णायुधःसन् विश्वा सर्वाणि वसु वसूनि हस्तयोरादधानोस्मभ्यंदानाय एवंकुर्वन् प्रायासीत् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६