मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९०, ऋक् ३

संहिता

शूर॑ग्राम॒ः सर्व॑वीर॒ः सहा॑वा॒ञ्जेता॑ पवस्व॒ सनि॑ता॒ धना॑नि ।
ति॒ग्मायु॑धः क्षि॒प्रध॑न्वा स॒मत्स्वषा॑ळ्हः सा॒ह्वान्पृत॑नासु॒ शत्रू॑न् ॥

पदपाठः

शूर॑ऽग्रामः । सर्व॑ऽवीरः । सहा॑वान् । जेता॑ । प॒व॒स्व॒ । सनि॑ता । धना॑नि ।
ति॒ग्मऽआ॑युधः । क्षि॒प्रऽध॑न्वा । स॒मत्ऽसु॑ । अषा॑ळ्हः । स॒ह्वान् । पृत॑नासु । शत्रू॑न् ॥

सायणभाष्यम्

हे सोम पवस्व त्वम् । कीदृशस्त्वं शूरग्रामः शूराणां ग्रामः संघोयस्यसः सर्ववीरः सर्वे वीरायस्य सतथोक्तः सहावान् सहनवान् जेता जयशीलः सनिता संभक्ता धनानि तिग्मायुधः तीक्ष्णप्रहरणसाधनः क्षिप्रधन्वा क्षिप्रसहनशीलधन्वा समत्सु संग्रामेषु अषा- ह्ळः असोढः साह्वान् अभिभवन् कुत्र पृतनासु शत्रुसेनासु कान् शत्रून् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६