मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९०, ऋक् ५

संहिता

मत्सि॑ सोम॒ वरु॑णं॒ मत्सि॑ मि॒त्रं मत्सीन्द्र॑मिन्दो पवमान॒ विष्णु॑म् ।
मत्सि॒ शर्धो॒ मारु॑तं॒ मत्सि॑ दे॒वान्मत्सि॑ म॒हामिन्द्र॑मिन्दो॒ मदा॑य ॥

पदपाठः

मत्सि॑ । सो॒म॒ । वरु॑णम् । मत्सि॑ । मि॒त्रम् । मत्सि॑ । इन्द्र॑म् । इ॒न्दो॒ इति॑ । प॒व॒मा॒न॒ । विष्णु॑म् ।
मत्सि॑ । शर्धः॑ । मारु॑तम् । मत्सि॑ । दे॒वान् । मत्सि॑ । म॒हाम् । इन्द्र॑म् । इ॒न्दो॒ इति॑ । मदा॑य ॥

सायणभाष्यम्

हे पवमान पूयमानेन्दो सोम त्वं वरुणादीन् मत्सि तर्पय तेषां मदाय । इन्द्रस्य प्रा- धान्यात् द्विरभिधानं ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६