मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९१, ऋक् ३

संहिता

वृषा॒ वृष्णे॒ रोरु॑वदं॒शुर॑स्मै॒ पव॑मानो॒ रुश॑दीर्ते॒ पयो॒ गोः ।
स॒हस्र॒मृक्वा॑ प॒थिभि॑र्वचो॒विद॑ध्व॒स्मभि॒ः सूरो॒ अण्वं॒ वि या॑ति ॥

पदपाठः

वृषा॑ । वृष्णे॑ । रोरु॑वत् । अं॒शुः । अ॒स्मै॒ । पव॑मानः । रुश॑त् । ई॒र्ते॒ । पयः॑ । गोः ।
स॒हस्र॑म् । ऋक्वा॑ । प॒थिऽभिः॑ । व॒चः॒ऽवित् । अ॒ध्व॒स्मऽभिः॑ । सूरः॑ । अण्व॑म् । वि । या॒ति॒ ॥

सायणभाष्यम्

वृषा कामानांवर्षकः वृषेवाचरन्वा रोरुवत् भृशंशब्दायमानः अंशुः सोमः पवमानः पूयमानः सन् अस्मै वृष्णै वर्षकायेन्द्राय तदर्थं रुशत् रोचतेरिदंरूपम् । आरोचमानं श्वेतं गोः पय आश्रयणद्रव्यं ईर्ते गच्छति ईरगतौ आदादिकः । किंच ऋक्वा छन्दसीवनिपाविति मत्वर्थीयोवनिप् स्तोत्रवान् अतएव वचोवित् स्तुतीनांज्ञाता सूरः सुवीर्यः सर्वेषामग्निष्टो- मादिकर्मप्रेरकः सोमः अध्वस्मभिः ध्वंसनवर्जितैः हिंसारहितैः सहस्रं पथिभिर्बहुभिर्मार्गैः अण्वं सूक्ष्मच्छिद्रं पवित्रं वियाति अतीत्य द्रोणकलशं गच्छति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः