मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९१, ऋक् ४

संहिता

रु॒जा दृ॒ळ्हा चि॑द्र॒क्षस॒ः सदां॑सि पुना॒न इ॑न्द ऊर्णुहि॒ वि वाजा॑न् ।
वृ॒श्चोपरि॑ष्टात्तुज॒ता व॒धेन॒ ये अन्ति॑ दू॒रादु॑पना॒यमे॑षाम् ॥

पदपाठः

रु॒ज । दृ॒ळ्हा । चि॒त् । र॒क्षसः॑ । सदां॑सि । पु॒ना॒नः । इ॒न्दो॒ इति॑ । ऊ॒र्णु॒हि॒ । वि । वाजा॑न् ।
वृ॒श्च । उ॒परि॑ष्टात् । तु॒ज॒ता । व॒धेन॑ । ये । अन्ति॑ । दू॒रात् । उ॒प॒ऽना॒यम् । ए॒षा॒म् ॥

सायणभाष्यम्

हे सोम दृह्ळाचित् दृढान्यपि परैरगन्तव्यत्वेन रक्षसोराक्षसस्य सदांसि स्थानानि पुराणि रुज विनाशय । रुजोभंगे तौदादिकः । किंच हे इन्दो पवमानः पुनानः पवित्रा- दिभिः पूयमानस्त्वं वाजान् अन्नानि तस्य बलानिवा विविधं ऊर्णुहि आच्छादय आह- रेत्यर्थः । तथा येराक्षसा उपरिष्टादूर्ध्वदेशादागच्छन्ति ये वा अन्तिके समीपे आगच्छन्ति ये च दूरात् दूरदेशाद्वा आगच्छन्ति येषां राक्षसानां उपनायं उपनेतारं स्वामिनं तुजता तुजतिर्हिंसाकर्मा । हिंसकेन वधेन हननसाधनेनायुधेन त्वं वृश्च छिन्धि । ओव्रश्चूछेदने तौदादिकः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः