ए॒वा पु॑ना॒नो अ॒पः स्व१॒॑र्गा अ॒स्मभ्यं॑ तो॒का तन॑यानि॒ भूरि॑ ।
शं न॒ः क्षेत्र॑मु॒रु ज्योतीं॑षि सोम॒ ज्योङ्न॒ः सूर्यं॑ दृ॒शये॑ रिरीहि ॥
ए॒व । पु॒ना॒नः । अ॒पः । स्वः॑ । गाः । अ॒स्मभ्य॑म् । तो॒का । तन॑यानि । भूरि॑ ।
शम् । नः॒ । क्षेत्र॑म् । उ॒रु । ज्योतीं॑षि । सो॒म॒ । ज्योक् । नः॒ । सूर्य॑म् । दृ॒शये॑ । रि॒री॒हि॒ ॥
हे सोम एव एवं पुनानः पूयमानः पवित्रादिभिः अस्मभ्यं रिरीहि प्रापय प्रयच्छ । किं नत् अपः अपइत्यन्तरिक्षनाम आप्नोति सर्वमपि अन्तरिक्षं स्वः स्वर्गं द्युलोकं गाः सर्वैर्गम्यते अत्रेतिगावः पृथिव्यः ताः पृथिवीश्ड्च भूरि सुपांसुलुगिति द्वितीयायालुक् । बहून् तोका तोकान् तनयानि तन्वन्ति कुलमिति तनयाः पौत्राः तांश्च तथा नोस्मभ्यं क्षेत्रं शं सुखकरं कुरु । हेसोम ज्योतींषि नक्षत्राणि उरु उरूणि अन्तरिक्षे विस्तीर्णानि- कुरु । तथा नोस्मभ्यं सूर्यमादित्यं ज्योक् चिरनामैतत् चिरकालं दृशये द्रष्टुं कुरु ॥ ६ ॥
परिसुवानइति षळृचंसप्तमंसूक्तं मारीचस्यकश्यपस्यार्षं त्रैष्टुभं पवमानसोमदेवताकम् । परिसुवानइत्यनुक्रान्तं गतोविनियोगः ।