मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९२, ऋक् १

संहिता

परि॑ सुवा॒नो हरि॑रं॒शुः प॒वित्रे॒ रथो॒ न स॑र्जि स॒नये॑ हिया॒नः ।
आप॒च्छ्लोक॑मिन्द्रि॒यं पू॒यमा॑न॒ः प्रति॑ दे॒वाँ अ॑जुषत॒ प्रयो॑भिः ॥

पदपाठः

परि॑ । सु॒वा॒नः । हरिः॑ । अं॒शुः । प॒वित्रे॑ । रथः॑ । न । स॒र्जि॒ । स॒नये॑ । हि॒या॒नः ।
आप॑त् । श्लोक॑म् । इ॒न्द्रि॒यम् । पू॒यमा॑नः । प्रति॑ । दे॒वान् । अ॒जु॒ष॒त॒ । प्रयः॑ऽभिः ॥

सायणभाष्यम्

सुवानः अभिषूयमाणः हियानः ऋत्विग्भिः प्रेर्यमाणः हरिर्हरितवर्णः अंशुः सोमः पवित्रे अविवालेन कृतेदशापवित्रे परिसर्जि परिसृज्यते । किमर्थं सनये धनलाभाय देवानां संभजनाय वा । तत्रदृष्टान्तः—रथोन रथोयथा युद्धे शत्रुवधार्थं शत्रुधनहरणार्थंवा सृज्यते तद्वत् । किंच पूयमानः पवित्रेण सोयंसोमः इन्द्रियं इन्द्रलिंगं इन्द्रस्य पर्याप्तं वा श्लोकं स्तोत्रमापत् आप्नोति आपॢव्याप्तौलेट्यडागमः । तथाससोमः प्रयोभिः प्रीणयितृभिः हवीरूपैः अन्नैर्देवान् प्रत्यजुषत प्रतिसेवते जुषीप्रीतिसेवनयोः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः