मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९२, ऋक् ३

संहिता

प्र सु॑मे॒धा गा॑तु॒विद्वि॒श्वदे॑व॒ः सोमः॑ पुना॒नः सद॑ एति॒ नित्य॑म् ।
भुव॒द्विश्वे॑षु॒ काव्ये॑षु॒ रन्तानु॒ जना॑न्यतते॒ पञ्च॒ धीरः॑ ॥

पदपाठः

प्र । सु॒ऽमे॒धाः । गा॒तु॒ऽवित् । वि॒श्वऽदे॑वः । सोमः॑ । पु॒ना॒नः । सदः॑ । ए॒ति॒ । नित्य॑म् ।
भुव॑त् । विश्वे॑षु । काव्ये॑षु । रन्ता॑ । अनु॑ । जना॑न् । य॒त॒ते॒ । पञ्च॑ । धीरः॑ ॥

सायणभाष्यम्

सुमेधाः । नित्यमसिच् प्रजामेधयोरिति असिच् समासान्तः । शोभनप्रज्ञः गातुवित् मार्गस्यवेत्ता यद्वा गातवः स्तोतारः तेषां धनस्यलंभयितावा विश्वदेवः सर्वदेवोपगतः यद्वादेवो देवनं दीप्तिः व्यापकदीप्तियुक्ताः एतादृशाः सोमः पुनानः पूयमानः सन् नित्यमविनश्वरं सदः स्थानं द्रोणकलशं प्रैति प्रगच्छति अतः विश्वेषु सर्वेषु काव्येषु कविकर्मसु स्तोत्रेषु रन्ताभुवत् रमणशीलोभवति रमेस्ताच्छीलिकस्तृन् । तथा धीरः प्राज्ञः सोयंपंचजनान् निषादपंचमान् चतुरोवर्णान् अनुयतते अनुगन्तुं प्रयत्नंकरोति अनुगच्छतीतियावत् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः