मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९२, ऋक् ४

संहिता

तव॒ त्ये सो॑म पवमान नि॒ण्ये विश्वे॑ दे॒वास्त्रय॑ एकाद॒शासः॑ ।
दश॑ स्व॒धाभि॒रधि॒ सानो॒ अव्ये॑ मृ॒जन्ति॑ त्वा न॒द्य॑ः स॒प्त य॒ह्वीः ॥

पदपाठः

तव॑ । त्ये । सो॒म॒ । प॒व॒मा॒न॒ । नि॒ण्ये । विश्वे॑ । दे॒वाः । त्रयः॑ । ए॒का॒द॒शासः॑ ।
दश॑ । स्व॒धाभिः॑ । अधि॑ । सानौ॑ । अव्ये॑ । मृ॒जन्ति॑ । त्वा॒ । न॒द्यः॑ । स॒प्त । य॒ह्वीः ॥

सायणभाष्यम्

हे पवमान पूयमान हेसोम तवस्वभूताः त्ये ते प्रसिद्धाः त्रयएकादशासः पूरणार्थे- डट्प्रत्ययः । त्रयस्त्रिंशत्संख्याका विश्वेसर्वेदेवाः निण्ये अन्तर्हितनामैतत् । अंतर्हिते स्थाने द्युलोकेवर्तन्ते तादृशं त्वां दशसंख्याका अंगुलयः अधिसानौ अधिकं समुच्छ्रिते अव्ये अविमये पवित्रे स्वधाभिरुदकैर्वा सृजन्ति शोधयन्ति । किंच यह्वीः वाछन्दसीति पूर्व- सवर्णदीर्घः । यत्द्भ्योमहत्यः सप्तसंख्याकागंगाद्यानद्यः त्वा त्वां मृजन्ति वसतीवर्यात्मकै- रेकधनात्मकैश्च स्वीयैरुदकैस्त्वां मार्जयन्ति इत्यर्थः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः