मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९२, ऋक् ६

संहिता

परि॒ सद्मे॑व पशु॒मान्ति॒ होता॒ राजा॒ न स॒त्यः समि॑तीरिया॒नः ।
सोमः॑ पुना॒नः क॒लशाँ॑ अयासी॒त्सीद॑न्मृ॒गो न म॑हि॒षो वने॑षु ॥

पदपाठः

परि॑ । सद्म॑ऽइव । प॒शु॒ऽमन्ति॑ । होता॑ । राजा॑ । न । स॒त्यः । सम्ऽइ॑तीः । इ॒या॒नः ।
सोमः॑ । पु॒ना॒नः । क॒लशा॑न् । अ॒या॒सी॒त् । सीद॑न् । मृ॒गः । न । म॒हि॒षः । वने॑षु ॥

सायणभाष्यम्

होता देवानामाह्वाता ऋत्विक् पशुमन्ति पशुमतः सद्मेव यज्ञगृहान् यथापरिगच्छते । किंच राजा न यथाराजा सत्यः सत्यकर्मासन् समितीः संग्रामनामैतत् सम्यक् प्राप्यते योद्धृभिरत्रेतितान् संग्रामान् इयानोगच्छन् भवति । तथा पुनानः सोमोवनेषु वननीयेषु वसतीवर्याख्येषूदकेषुसीदन् मृगोन महिषः महिषाख्योमृगइव उदकेषुतिष्ठन् कलशान् द्रोणाभिधानान् अयासीत् परियाति । यद्वा महिषोमहान् पूज्योवा सोमः कलशान् परि- गच्छतीति ॥ ६ ॥

साकमुक्षइति पंचर्चमष्टमंसूक्तं गौतमस्यनोधसआर्षं पूर्ववच्छंदोदेवते । तथाचानुक्रम्यते । साकमुक्षःपंचनोधाइति । गतोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः