मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९३, ऋक् १

संहिता

सा॒क॒मुक्षो॑ मर्जयन्त॒ स्वसा॑रो॒ दश॒ धीर॑स्य धी॒तयो॒ धनु॑त्रीः ।
हरि॒ः पर्य॑द्रव॒ज्जाः सूर्य॑स्य॒ द्रोणं॑ ननक्षे॒ अत्यो॒ न वा॒जी ॥

पदपाठः

सा॒क॒म्ऽउक्षः॑ । म॒र्ज॒य॒न्त॒ । स्वसा॑रः । दश॑ । धीर॑स्य । धी॒तयः॑ । धनु॑त्रीः ।
हरिः॑ । परि॑ । अ॒द्र॒व॒त् । जाः । सूर्य॑स्य । द्रोण॑म् । न॒न॒क्षे॒ । अत्यः॑ । न । वा॒जी ॥

सायणभाष्यम्

साकमुक्षः सहयुगपत् सिंचंत्यः उक्षसेचने क्विपिरूपम् । तादृश्यः स्वसारः कर्मकरणार्थं इतस्ततः सुष्ठुगच्छंत्योंगुलयः मर्जयंत सोमंशोधयन्ति । मृजूशौचालंकारयोः । तथा दश दशसंख्याकाः धीतयः अंगुलिनामैतत् । अंगुलयः धीरस्य समर्थस्य प्राज्ञस्यवा देवैर्ध्यातव्य स्य काम्यमानस्यवा सोमस्य धनुत्रीः प्रेरेयित्र्योभवन्ति ततः हरिर्हरितवर्णः सोमः सूर्य- स्यजाः प्रादुर्भूता जायादिशः ताः पर्यद्रवत् परितोगच्छति । सूर्यतेजसाहि आविर्भवन्तीति दिशां तस्यजात्वम् । अत्यः अतनशीलोवाजीन अश्वइव स्थितः सोमः द्रोणं कलशं ननक्षे व्याप्नोति । नक्षतिर्व्याप्तिकर्मा ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः