मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९३, ऋक् ३

संहिता

उ॒त प्र पि॑प्य॒ ऊध॒रघ्न्या॑या॒ इन्दु॒र्धारा॑भिः सचते सुमे॒धाः ।
मू॒र्धानं॒ गाव॒ः पय॑सा च॒मूष्व॒भि श्री॑णन्ति॒ वसु॑भि॒र्न नि॒क्तैः ॥

पदपाठः

उ॒त । प्र । पि॒प्ये॒ । ऊधः॑ । अघ्न्या॑याः । इन्दुः॑ । धारा॑भिः । स॒च॒ते॒ । सु॒ऽमे॒धाः ।
मू॒र्धान॑म्् । गावः॑ । पय॑सा । च॒मूषु॑ । अ॒भि । श्री॒ण॒न्ति॒ । वसु॑ऽभिः । न । नि॒क्तैः ॥

सायणभाष्यम्

उतापिच अघ्न्यायाः अघ्न्येतिगोनाम अहंतव्यायागोरूधः पयःस्थानं सोमः प्रपिप्ये ओषध्यादिषु सोमः प्रविश्य प्रकर्षेणाप्याययति । प्यायतेर्लिटिलिड्यङोश्चेतिपीभावः । सुमेधाः शोभनप्रज्ञः सोयं इन्दुः सोमः धाराभिः सचते समवैति संगच्छते । ततोगावः चमूषु चमन्ति भक्षयंत्यत्रसोममिति चम्वोग्रहादयः तेषुस्थितं मूर्धानं समुच्छ्रितमिमंसोमं पयसा श्वेतेन अभिश्रीणंति अभितआच्छादयन्ति । तत्रदृष्टान्तः—निक्तैः प्रक्षालितैर्वसुभिर्न वस्त्रैर्यथा आच्छादयन्ति तद्वत् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः