मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९३, ऋक् ४

संहिता

स नो॑ दे॒वेभि॑ः पवमान र॒देन्दो॑ र॒यिम॒श्विनं॑ वावशा॒नः ।
र॒थि॒रा॒यता॑मुश॒ती पुरं॑धिरस्म॒द्र्य१॒॑गा दा॒वने॒ वसू॑नाम् ॥

पदपाठः

सः । नः॒ । दे॒वेभिः॑ । प॒व॒मा॒न॒ । र॒द॒ । इन्दो॒ इति॑ । र॒यिम् । अ॒श्विन॑म् । वा॒व॒शा॒नः ।
र॒थि॒रा॒यता॑म् । उ॒श॒ती । पुर॑म्ऽधिः । अ॒स्म॒द्र्य॑क् । आ । दा॒वने॑ । वसू॑नाम् ॥

सायणभाष्यम्

हे पवमान पूयमानसोम सतादृशः त्वं नोस्मभ्यं देवेभिर्देवैः सह रद प्रयच्छ । किंतत् उच्यते हेइन्दो पात्रेषु क्षरन् सोम वावशानः कामयमानः सन् अश्विनं अश्ववन्तं रयिं धनं प्रयच्छेति । किंच रथिरायतां रथोयेषामस्तीति रथिराः । मेधारथाभ्यामितीरच् प्रत्ययः । तद्वदाचरतः तानिच्छतोवा पुरुषान् उशती कामयमाना पुरंधिः त्वदीया बहुविधाधीः वसूनां धनानां दावने दानाय अस्मद्भ्यक् अस्मदभिमुख्यागच्छतु यद्वा रथिरायतामिति धनानांविशेषणं बलवतां धनानामिति । अस्मद्भ्यक् विष्वग्देवयोश्चटेरद्भ्यञ्चतावप्रत्ययइति अद्भ्यादेशः अद्रिसध्र्योरन्तोदात्तत्वनिपातनात् उदात्तस्वरितयोर्यणइतितित्स्वरितः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः