मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९४, ऋक् २

संहिता

द्वि॒ता व्यू॒र्ण्वन्न॒मृत॑स्य॒ धाम॑ स्व॒र्विदे॒ भुव॑नानि प्रथन्त ।
धियः॑ पिन्वा॒नाः स्वस॑रे॒ न गाव॑ ऋता॒यन्ती॑र॒भि वा॑वश्र॒ इन्दु॑म् ॥

पदपाठः

द्वि॒ता । वि॒ऽऊ॒र्ण्वन् । अ॒मृत॑स्य । धाम॑ । स्वः॒ऽविदे॑ । भुव॑नानि । प्र॒थ॒न्त॒ ।
धियः॑ । पि॒न्वा॒नाः । स्वस॑रे । न । गावः॑ । ऋ॒त॒ऽयन्तीः॑ । अ॒भि । वा॒व॒श्रे॒ । इन्दु॑म् ॥

सायणभाष्यम्

अमृतस्योदकस्यधाम धारकंस्थानमन्तरिक्षं सोमोद्विता द्विधा व्यूर्ण्वन् उभयतः स्वते- जसाच्छादयन् मध्येनगच्छति । ततः स्वर्विदे सर्वज्ञाय तस्मै सोमाय भुवनानि प्रथन्त विस्तीर्णानिभवन्ति । तस्यरश्मीनां संचरणार्थं प्रथन्तइत्यर्थः । अथ पिन्वानाः प्रीणयित्र्यः धियः स्तुतिलक्षणावाचः ऋतायन्तीर्यज्ञमिच्छंत्यः सत्यः तमिममिंदुं सोममभिलक्ष्य स्वसरे यागाहनि वावश्रे शब्दायन्ते । यद्वा सोमं कामयन्ते । तत्रदृष्टान्तः—गावोन यथापिन्वमा- नाः पयः क्षरंत्योगावः स्वसरे सुष्ठु अस्यन्ते प्रेर्यंते गावोत्रेति स्वसरोगोष्ठं तस्मिन्नच्छाभि- लक्ष्य शब्दंकुर्वन्ति तद्वत् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः