मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९४, ऋक् ३

संहिता

परि॒ यत्क॒विः काव्या॒ भर॑ते॒ शूरो॒ न रथो॒ भुव॑नानि॒ विश्वा॑ ।
दे॒वेषु॒ यशो॒ मर्ता॑य॒ भूष॒न्दक्षा॑य रा॒यः पु॑रु॒भूषु॒ नव्य॑ः ॥

पदपाठः

परि॑ । यत् । क॒विः । काव्या॑ । भर॑ते । शूरः॑ । न । रथः॑ । भुव॑नानि । विश्वा॑ ।
दे॒वेषु॑ । यशः॑ । मर्ता॑य । भूष॑न् । दक्षा॑य । रा॒यः । पु॒रु॒ऽभूषु॑ । नव्यः॑ ॥

सायणभाष्यम्

कविः क्रान्तप्रज्ञः सोमः काव्या काव्यानि कवेः कर्माणि स्तोत्राणि यद्यदा परिभरते परितोबिभर्ति परिगच्छतीतियावत् । कथमिव शूरोन यथाशूरः शत्रूणांबाधकोरथस्तदीयः विश्वा भुवनानि सांग्रामिकानि भूतानि परियाति तद्वत् तदानीं देवेषुस्थितं यशोव्यापकं धनं मर्ताय मनुष्याय स्तोत्रे भूषन् भवतेरन्तर्भावितण्यर्थात् सनिरूपं भावयितुमिच्छन् सोमः रायः आत्मना दत्तस्यधनस्य दक्षाय वृध्यर्थं पुरुभूषु बहुषुयज्ञभवनेषु नव्यः स्तोत- व्योभवति । णुस्तुतौ अचोयत् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः