मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९४, ऋक् ४

संहिता

श्रि॒ये जा॒तः श्रि॒य आ निरि॑याय॒ श्रियं॒ वयो॑ जरि॒तृभ्यो॑ दधाति ।
श्रियं॒ वसा॑ना अमृत॒त्वमा॑य॒न्भव॑न्ति स॒त्या स॑मि॒था मि॒तद्रौ॑ ॥

पदपाठः

श्रि॒ये । जा॒तः । श्रि॒ये । आ । निः । इ॒या॒य॒ । श्रिय॑म् । वयः॑ । ज॒रि॒तृऽभ्यः॑ । द॒धा॒ति॒ ।
श्रिय॑म् । वसा॑नाः । अ॒मृ॒त॒ऽत्वम् । आ॒य॒न् । भव॑न्ति । स॒त्या । स॒म्ऽइ॒था । मि॒तऽद्रौ॑ ॥

सायणभाष्यम्

ससोमः श्रियेजातः संपदर्थं प्रादुर्भूतोभवति । तदेवाह श्रिये श्र्यर्थंएव आनिरियाय अं- शुभ्य आभिमुख्येन निर्गच्छति निर्गतश्च ससोमः जरितृभ्यः स्तोतृभ्यः श्रियं वयोन्नं जीवनं चादधाति विदधाति प्रयच्छति । तेन दत्तांश्रियं वसाना आच्छादयन्तः स्तोतारः अमृतत्वं देवत्वं अमरणत्वं वा आयन् प्राप्नुवन् तस्मिन् मितद्रौ मितगमने सोमे समिथा युद्धनामै- तत् सम्यक् प्राप्यते अत्रेति समीणइति । एतेः सम् पूर्वस्यथक्प्रत्ययः । तानि युद्धानि सत्या सत्यानि यथार्थानिभवन्ति नतुवितथानि तेनसोमेन पराजितानिभवन्तीत्यर्थः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः