मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९४, ऋक् ५

संहिता

इष॒मूर्ज॑म॒भ्य१॒॑र्षाश्वं॒ गामु॒रु ज्योति॑ः कृणुहि॒ मत्सि॑ दे॒वान् ।
विश्वा॑नि॒ हि सु॒षहा॒ तानि॒ तुभ्यं॒ पव॑मान॒ बाध॑से सोम॒ शत्रू॑न् ॥

पदपाठः

इष॑म् । ऊर्ज॑म् । अ॒भि । अ॒र्ष॒ । अश्व॑म् । गाम् । उ॒रु । ज्योतिः॑ । कृ॒णु॒हि॒ । मत्सि॑ । दे॒वान् ।
विश्वा॑नि । हि । सु॒ऽसहा॑ । तानि॑ । तुभ्य॑म् । पव॑मान । बाध॑से । सो॒म॒ । शत्रू॑न् ॥

सायणभाष्यम्

हे सोम इषं अन्नं ऊर्जमन्नरसंच अस्मभ्यमभ्यर्ष अभिगमय । किंच अश्वं वाहनं गां पयःप्रदानेन यज्ञस्यसाधनभूतां गां च तथा उरु महत् ज्योतिः सूर्याख्यं कृणुहि जगदा- लोकनार्थंकुरु । किंच देवानिन्द्रादीन् मत्सि सोमेन तर्पय मदेर्लटि बहुलंछन्दसीति विकर- णस्यलुक् वाक्यभेदादनिघातः । अपिच हेसोम तुभ्यं तानि विश्वानि सर्वाणि रक्षांसि सुषहा सुसहानि अनायासेनैव अभिभवितुं शक्यानि भवन्ति । हिरवधारणे । अतएव हे पवमान पूयमान हेसोम सर्वान् शत्रून् बाधसे जहि ॥ ५ ॥

कनिक्रन्तीति पंचर्चंदशमंसूक्तं कण्वपुत्रस्य प्रस्कण्वस्यार्षम् । तथानुक्रम्यते । कनिक्रन्ति- प्रस्कण्वइति । पूर्ववच्छन्दोदेवते । गतोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः