मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९५, ऋक् १

संहिता

कनि॑क्रन्ति॒ हरि॒रा सृ॒ज्यमा॑न॒ः सीद॒न्वन॑स्य ज॒ठरे॑ पुना॒नः ।
नृभि॑र्य॒तः कृ॑णुते नि॒र्णिजं॒ गा अतो॑ म॒तीर्ज॑नयत स्व॒धाभि॑ः ॥

पदपाठः

कनि॑क्रन्ति । हरिः॑ । आ । सृ॒ज्यमा॑नः । सीद॑न् । वन॑स्य । ज॒ठरे॑ । पु॒ना॒नः ।
नृऽभिः॑ । य॒तः । कृ॒णु॒ते॒ । निः॒ऽनिज॑म् । गाः । अतः॑ । म॒तीः । ज॒न॒य॒त॒ । स्व॒धाभिः॑ ॥

सायणभाष्यम्

आसृज्यमान आसमन्तात् विसृज्यमानोभिषूयमाणः हरिर्हरितवर्णः सोमः कनिक्रन्ति पुनःपुनः शब्दायते क्रन्दतेर्यङ्लुकि तिपीडभावे दाधर्तिदर्धर्ति इत्यादिनानिपातनादभ्यास- स्य निगागमः अभ्यस्तस्वरः । तथा पुनानः पूयमानः वनस्य वननीयस्य द्रोणकलशस्य जठरे सीदन्नुपविशन् शब्दायते । किंच नृभिः कर्मनेतृभिरृत्विग्भिः यतः संयतः सोमः गागोविकारान् क्षीरादीनि आच्छादयन् निर्निजं आत्मनोरूपम् । कृणुते ग्रहादिषु करोति अतोस्मै सोमाय मती र्मननीयाः स्तुतीः स्वधाभिर्हविर्भिः सह जनयत स्तोतारोजनयन् । झस्यान्तादेशाभावश्छान्दसः । यद्वा हे स्तोतारः अस्मै सोमाय स्तुतीर्जनयत उत्पादयत कुरुतेतियावत् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः