मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९५, ऋक् २

संहिता

हरि॑ः सृजा॒नः प॒थ्या॑मृ॒तस्येय॑र्ति॒ वाच॑मरि॒तेव॒ नाव॑म् ।
दे॒वो दे॒वानां॒ गुह्या॑नि॒ नामा॒विष्कृ॑णोति ब॒र्हिषि॑ प्र॒वाचे॑ ॥

पदपाठः

हरिः॑ । सृ॒जा॒नः । प॒थ्या॑म् । ऋ॒तस्य॑ । इय॑र्ति । वाच॑म् । अ॒रि॒ताऽइ॑व । नाव॑म् ।
दे॒वः । दे॒वाना॑म् । गुह्या॑नि । नाम॑ । आ॒विः । कृ॒णो॒ति॒ । ब॒र्हिषि॑ । प्र॒ऽवाचे॑ ॥

सायणभाष्यम्

सृजानः सृज्यमानः हरिर्हरितवर्णः सोमः ऋतस्य सत्यभूतस्य पथ्यां पथिभवांवाचं देवीं इयर्ति प्रेरयति । तत्रदृष्टान्तः—अरितेव जनान् तीरंप्रापयन् नाविकोयथा नावं प्रेर- यति तद्वत् ऋगतौ जौहोत्यादिकः अर्तिपिपर्त्योरित्यभ्यासस्येत्वम् । ततः देवोदीप्यमानः सोमः देवानां इन्द्रादीनां गुह्यानि अन्तर्हितानि नाम नामानि शरीराणि प्रवाचे प्रकर्षे- णवाचयित्रे स्तोत्रे बर्हिषियज्ञे आविष्कृणोति स्तोतुमाविष्करोति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः