मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९५, ऋक् ४

संहिता

तं म॑र्मृजा॒नं म॑हि॒षं न साना॑वं॒शुं दु॑हन्त्यु॒क्षणं॑ गिरि॒ष्ठाम् ।
तं वा॑वशा॒नं म॒तयः॑ सचन्ते त्रि॒तो बि॑भर्ति॒ वरु॑णं समु॒द्रे ॥

पदपाठः

तम् । म॒र्मृ॒जा॒नम् । म॒हि॒षम् । न । सानौ॑ । अं॒शुम् । दु॒ह॒न्ति॒ । उ॒क्षण॑म् । गि॒रि॒ऽस्थाम् ।
तम् । वा॒व॒शा॒नम् । म॒तयः॑ । स॒च॒न्ते॒ । त्रि॒तः । बि॒भ॒र्ति॒ । वरु॑णम् । स॒मु॒द्रे ॥

सायणभाष्यम्

मर्मृजानं यष्टृभिःपरिचर्यमाणं महिषंन महिषाख्यंमृगमिव सानौ समुच्छ्रितेदेशे वर्तमानं उक्षणं कामानांसेक्तारं गिरिष्ठां अभिषवार्थं ग्रावसुनिष्ठितं तं तादृशं प्रसिद्धं अंशुं सोमं दुहन्ति ऋत्विजोदुहते । ग्रावाणंवत्साः ऋत्विजोदुहन्तीति तैत्तिरीयब्राह्मणम् । तं तादृशं वावशानं कामयमानं सोमं मतयोमन्तव्याः स्तुतयः सचन्ते समवयन्ति सेव- न्तेइतियावत् । ततः त्रितः त्रिषुस्थानेषु वर्तमानः इन्द्रः वरुणं शत्रूणांनिवारकमेनंसोमं समुद्रे अन्तरिक्षे बिभर्ति शत्रुवधार्थं धारयति यद्वा त्रितः त्रिषु स्थानेषु द्रोणाधवनी- यपूतभृदाख्येषु कलशेषुस्थितःसोमः शत्रूणांनिवारकमिन्द्रं द्युलोकेबिभर्ति पोषयति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः