मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९५, ऋक् ५

संहिता

इष्य॒न्वाच॑मुपव॒क्तेव॒ होतु॑ः पुना॒न इ॑न्दो॒ वि ष्या॑ मनी॒षाम् ।
इन्द्र॑श्च॒ यत्क्षय॑थ॒ः सौभ॑गाय सु॒वीर्य॑स्य॒ पत॑यः स्याम ॥

पदपाठः

इष्य॑न् । वाच॑म् । उ॒प॒व॒क्ताऽइ॑व । होतुः॑ । पु॒ना॒नः । इ॒न्दो॒ इति॑ । वि । स्य॒ । म॒नी॒षाम् ।
इन्द्रः॑ । च॒ । यत् । क्षय॑थः । सौभ॑गाय । सु॒ऽवीर्य॑स्य । पत॑यः । स्या॒म॒ ॥

सायणभाष्यम्

हे इन्दो सोम वाचं स्तुतिमिष्यन् प्रेरयन् होतुरुपवक्तेव यथा अध्वर्युः प्रतिगरंकुर्वन् प्रोत्साहयति तद्वत् स्तोतॄणां शंसनाय प्रोत्साहंकुर्वन् पुनानः पूयमानस्त्वं मनीषांबुद्धिं विष्य विमुंच । किंतु बुद्धिं धनप्रदानाभिमुखीं कुरु । किंच यद्यदाइन्द्रश्च त्वं सह यज्ञे क्षयथः निवसथः तदा स्तोतारोवयंसौभगाय सौभाग्याय स्याम । किंच सुवीर्यस्य शोभन- वीर्योपेतस्य धनस्य पतयः स्वामिनः स्याम भवेम ॥ ५ ॥

प्रसेनानीरिति चतुर्विंशत्यृचमेकादशंसूक्तं दिवोदासपुत्रस्य प्रतर्दनाख्यस्य राजर्षेरिदं त्रै- ष्टुभं पवमानसोमदेवताकम् । तथाचानुक्रम्यते—प्रसेनानीश्चतुर्विंशतिर्दैवोदासिःप्रतर्दनइति । गतः सूक्तविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः