मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९६, ऋक् १

संहिता

प्र से॑ना॒नीः शूरो॒ अग्रे॒ रथा॑नां ग॒व्यन्ने॑ति॒ हर्ष॑ते अस्य॒ सेना॑ ।
भ॒द्रान्कृ॒ण्वन्नि॑न्द्रह॒वान्त्सखि॑भ्य॒ आ सोमो॒ वस्त्रा॑ रभ॒सानि॑ दत्ते ॥

पदपाठः

प्र । से॒ना॒ऽनीः । शूरः॑ । अग्रे॑ । रथा॑नाम् । ग॒व्यन् । ए॒ति॒ । हर्ष॑ते । अ॒स्य॒ । सेना॑ ।
भ॒द्रान् । कृ॒ण्वन् । इ॒न्द्र॒ऽह॒वान् । सखि॑ऽभ्यः । आ । सोमः॑ । वस्त्रा॑ । र॒भ॒सानि॑ । द॒त्ते॒ ॥

सायणभाष्यम्

सेनानीः सेनानामग्रे उपनेताशूरः शात्रूणांबाधकः सोमः गव्यन् शत्रूणांगाइच्छन् यद्वा यजमानानां पश्वादिकमिच्छन् रथानामग्रे रथानांपुरतः प्रैति प्रकर्षेण संग्रामं गच्छति । अस्यसोमस्य सेनाच हर्षते हृष्यति वाक्यभेदादनिघातः । किंच सखीभ्यः समानख्यानेभ्यः यजमानेभ्यः इन्द्रहवान् तैःकृतान् इन्द्रस्याह्वानानि भद्रान् कल्याणानि यथार्थानिकृण्वन् कुर्वन् आहूतोहीन्द्रः सोमंपीत्वा कामान् प्रयच्छतीति । रभसानि इन्द्रस्य वेगेनागमनेनि- मित्तानि वस्त्रा वस्त्राणि आच्छादकानि पयः प्रभृतीन्याश्रयणानि आदत्ते आगृह्णाति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः