मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९६, ऋक् २

संहिता

सम॑स्य॒ हरिं॒ हर॑यो मृजन्त्यश्वह॒यैरनि॑शितं॒ नमो॑भिः ।
आ ति॑ष्ठति॒ रथ॒मिन्द्र॑स्य॒ सखा॑ वि॒द्वाँ ए॑ना सुम॒तिं या॒त्यच्छ॑ ॥

पदपाठः

सम् । अ॒स्य॒ । हरि॑म् । हर॑यः । मृ॒ज॒न्ति॒ । अ॒श्व॒ऽह॒यैः । अनि॑ऽशितम् । नमः॑ऽभिः ।
आ । ति॒ष्ठ॒ति॒ । रथ॑म् । इन्द्र॑स्य । सखा॑ । वि॒द्वान् । ए॒न॒ । सु॒ऽम॒तिम् । या॒ति॒ । अच्छ॑ ॥

सायणभाष्यम्

हरयः हरंत्यभिषुण्वन्ति सोममित्यृत्विजोंगुलयोवा हरिं हरितवर्णमस्य सोमस्य कारण मंशुं संमृजन्ति सम्यगभिषुण्वंति । ततः सोमः नमोभिः नामयितृभिः अश्वहयैर्व्याप्तैरपि अनिशितं असंस्कृतं अयुक्तमननुगतं रथं रमणसाधनमात्मीयं दशापवित्रं आतिष्ठति आसीदति । अनन्तरं इन्द्रस्य सखा सखिभूतः विद्वान् प्राज्ञः सोमः एना एतेन रथेन पवित्रेण सुमतिं शोभमस्तुतिकं स्तोतारं अच्छयाति अभिगच्छति अस्मिन् काले तेनक्रिय- माणां स्तुतिमभिगच्छतीत्यर्थः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः