मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९६, ऋक् ३

संहिता

स नो॑ देव दे॒वता॑ते पवस्व म॒हे सो॑म॒ प्सर॑स इन्द्र॒पानः॑ ।
कृ॒ण्वन्न॒पो व॒र्षय॒न्द्यामु॒तेमामु॒रोरा नो॑ वरिवस्या पुना॒नः ॥

पदपाठः

सः । नः॒ । दे॒व॒ । दे॒वऽता॑ते । प॒व॒स्व॒ । म॒हे । सो॒म॒ । प्सर॑से । इ॒न्द्र॒ऽपानः॑ ।
कृ॒ण्वन् । अ॒पः । व॒र्षय॑न् । द्याम् । उ॒त । इ॒माम् । उ॒रोः । आ । नः॒ । व॒रि॒व॒स्य॒ । पु॒ना॒नः ॥

सायणभाष्यम्

हे देव द्योतमान हे सोम सतादृश इन्द्रपानः इन्द्रेणपातव्यस्त्वं नोस्माकं स्वभूते देव- ताते देवैस्तते वितते यज्ञे महे महते प्सरसे भक्षणाय इन्द्रस्य पानाय पवस्व ग्रहादिषु- क्षर । किंच अपउदकानि कृण्वन् कुर्वन् उतापिच द्यामिमां द्यावापृथिव्यौ वर्षयन् भूमिं पर्जन्यरूपेण तर्पयति द्युलोकमग्निरूपेणेति । भूमिंपर्जन्याजिन्वंतिदिवंजिन्वंत्यग्नयइतिश्रव- णात् । उरोः विस्तीर्णादन्तरिक्षात् आगच्छंस्त्वं पुनानः पूयमानःसन् नोस्मान् वरिवस्य धनादिप्रदानेन परिचरेति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः