मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९६, ऋक् ६

संहिता

ब्र॒ह्मा दे॒वानां॑ पद॒वीः क॑वी॒नामृषि॒र्विप्रा॑णां महि॒षो मृ॒गाणा॑म् ।
श्ये॒नो गृध्रा॑णां॒ स्वधि॑ति॒र्वना॑नां॒ सोमः॑ प॒वित्र॒मत्ये॑ति॒ रेभ॑न् ॥

पदपाठः

ब्र॒ह्मा । दे॒वाना॑म् । प॒द॒ऽवीः । क॒वी॒नाम् । ऋषिः॑ । विप्रा॑णाम् । म॒हि॒षः । मृ॒गाणा॑म् ।
श्ये॒नः । गृध्रा॑णाम् । स्वऽधि॑तिः । वना॑नाम् । सोमः॑ । प॒वित्र॑म् । अति॑ । ए॒ति॒ । रेभ॑न् ॥

सायणभाष्यम्

सोमएवंरूपोभवति देवानां स्तोत्रकारिणामृत्विजां ब्रह्मा ब्रह्माख्यर्त्विक् स्थानीयोभवति यद्वा देवानां द्योतमानानामिन्द्रादीनां ब्रह्मा राजाभवति । तथा कवीनां क्रान्तप्रज्ञानां पदवीः स्खलन्ति पदानि साधुत्वेन योयोजयति सपदवीः । वीगत्यादिष्वित्येतस्मात् क्विपि रूपम् । तथा विप्राणां मेधाविनांमध्ये ऋषिर्भवति । यः परोक्षंपश्यति सऋषिः । ऋषिर्दर्श- नादिति । मृगाणां महिषोभवति महिषाख्योबलवान् राजाभवति । तथा गृध्राणां पक्षि- विशेषाणां श्येनः शंसनीयः पक्षिराजोभवति । वनानां वनतिर्हिसाकर्मा । हिंसकानां छेदका- नांमध्ये स्वधितिः एतन्नामकः छेदकोसि । एवंप्रभावः सोमः रेभन् शब्दायमानःसन् पवि त्रमूर्णास्तुकेन कृतमत्येति अतिगच्छति ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः