मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९६, ऋक् ७

संहिता

प्रावी॑विपद्वा॒च ऊ॒र्मिं न सिन्धु॒र्गिर॒ः सोम॒ः पव॑मानो मनी॒षाः ।
अ॒न्तः पश्य॑न्वृ॒जने॒माव॑रा॒ण्या ति॑ष्ठति वृष॒भो गोषु॑ जा॒नन् ॥

पदपाठः

प्र । अ॒वी॒वि॒प॒त् । वा॒चः । ऊ॒र्मिम् । न । सिन्धुः॑ । गिरः॑ । सोमः॑ । पव॑मानः । म॒नी॒षाः ।
अ॒न्तरिति॑ । पश्य॑न् । वृ॒जना॑ । इ॒मा । अव॑राणि । आ । ति॒ष्ठ॒ति॒ । वृ॒ष॒भः । गोषु॑ । जा॒नन् ॥

सायणभाष्यम्

पवमानः सोमः मनीषाः मनसईशिताः हृदयंगमाः गिरः स्तुतीः प्रावीविपत् प्रकर्षेण- वपयति प्रेरयति । कथमिव सिन्धुः स्यन्दमानानदीव वाचः शब्दस्य ऊर्मिन संघंयथा प्रेर- यति तद्वत् । किंच वृषभः कामानामुदकानांवा वर्षकः सोमः अन्तः अन्तर्हितं वस्तुजातं पश्यन् अवराणि दुर्बलैर्वारयितुमशक्यानि इमा वृजना इमानि बलानि आतिष्ठति आसी- दति । किंकुर्वन् गोषुजानन् गवांजानानःसन् परबलानि प्रविशति ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः