मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९६, ऋक् ८

संहिता

स म॑त्स॒रः पृ॒त्सु व॒न्वन्नवा॑तः स॒हस्र॑रेता अ॒भि वाज॑मर्ष ।
इन्द्रा॑येन्दो॒ पव॑मानो मनी॒ष्यं१॒॑शोरू॒र्मिमी॑रय॒ गा इ॑ष॒ण्यन् ॥

पदपाठः

सः । म॒त्स॒रः । पृ॒त्ऽसु । व॒न्वन् । अवा॑तः । स॒हस्र॑ऽरेताः । अ॒भि । वाज॑म् । अ॒र्ष॒ ।
इन्द्रा॑य । इ॒न्दो॒ इति॑ । पव॑मानः । म॒नी॒षी । अं॒शोः । ऊ॒र्मिम् । ई॒र॒य॒ । गाः । इ॒ष॒ण्यन् ॥

सायणभाष्यम्

मत्सरोमदकरः पृत्सुसंग्रामेषु वन्वन् शत्रून् हिंसन् अतएव अवातः अन्यैर्गन्तुमशक्यः सहस्ररेताः सहस्रोदकधारोपेतः ससोमः वाजं शत्रूणांबलमभ्यर्ष अभीगच्छ । हे इन्दो सोम पवमानः पूयमानः मनीषी प्राज्ञस्त्वं गाइषण्यन् शब्दान् प्रेरयन् । यद्वा यजमाना- नां यज्ञसाधनभूताः गाःप्रेरयन् इन्द्राय इन्द्रार्थं अंशोरभिषूयमाणस्यसोमस्य ऊर्मिं संघ- मीरय प्रेरय ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः