मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९६, ऋक् ९

संहिता

परि॑ प्रि॒यः क॒लशे॑ दे॒ववा॑त॒ इन्द्रा॑य॒ सोमो॒ रण्यो॒ मदा॑य ।
स॒हस्र॑धारः श॒तवा॑ज॒ इन्दु॑र्वा॒जी न सप्ति॒ः सम॑ना जिगाति ॥

पदपाठः

परि॑ । प्रि॒यः । क॒लशे॑ । दे॒वऽवा॑तः । इन्द्रा॑य । सोमः॑ । रण्यः॑ । मदा॑य ।
स॒हस्र॑ऽधारः । श॒तऽवा॑जः । इन्दुः॑ । वा॒जी । न । सप्तिः॑ । सम॑ना । जि॒गा॒ति॒ ॥

सायणभाष्यम्

प्रियः प्रीणयिता अतएव देववातः देवैरभिगतः रण्यः रमणीयः सोमः इन्द्राय इन्द्रस्य मदाय मदार्थं द्रोणाभिधाने परिजिगाति परिगच्छति । कीदृशः सहस्रधारोबहु- विधधारोपेतः शतवाजः बहुबलः इन्दुः पात्रेषु क्षरन् । तत्रदृष्टान्तः—वाजीन यथावाजी बलवान् सप्तिरश्वः समना संग्रामनामैतत् समष्टमअवैक्लव्ये । समन्ति धृष्टाभवन्ति योद्धारो- त्रेति तस्मिन् संग्रामे यथाश्वोजिगाति गच्छति तद्वत् ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः