मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९६, ऋक् १०

संहिता

स पू॒र्व्यो व॑सु॒विज्जाय॑मानो मृजा॒नो अ॒प्सु दु॑दुहा॒नो अद्रौ॑ ।
अ॒भि॒श॒स्ति॒पा भुव॑नस्य॒ राजा॑ वि॒दद्गा॒तुं ब्रह्म॑णे पू॒यमा॑नः ॥

पदपाठः

सः । पू॒र्व्यः । व॒सु॒ऽवित् । जाय॑मानः । मृ॒जा॒नः । अ॒प्ऽसु । दु॒दु॒हा॒नः । अद्रौ॑ ।
अ॒भि॒श॒स्ति॒ऽपाः । भुव॑नस्य । राजा॑ । वि॒दत् । गा॒तुम् । ब्रह्म॑णे । पू॒यमा॑नः ॥

सायणभाष्यम्

पूर्व्यः पुराणः यद्वा पूर्वैःकृतोभिषुतः वसुवित् धनानांलंभकः जायमानः अप्सु वसती- वर्याख्येषूदकेषु मृजानोमृज्यमानः अद्रौ अभिषवग्रावणि दुदुहानोदुह्यमानः अभिशस्तिपाः अभितः शस्तिर्हिसा येषां तेअभिशस्तयः शत्रवः तेभ्यः परिरक्षकः भुवनस्य भूतजातस्य राजा स्वामी एवंविधः सतादृशः सोमः ब्रह्मणे कर्मार्थं पूयमानः सन् गातुं मार्गं समी- चीनं विदत् यजमानेभ्यः प्रयच्छति ॥ १० ॥ महापितृयज्ञेपितरः सोमवन्तइत्यस्य द्वितीयानुवाक्या त्वयाहिनः पितरइत्येषा । सूत्रितंच—पितरोग्निष्वात्तायम उदीरतामवरउत्परासस्त्वयाहिनःपितरः सोमपूर्वइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः