मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९६, ऋक् ११

संहिता

त्वया॒ हि नः॑ पि॒तरः॑ सोम॒ पूर्वे॒ कर्मा॑णि च॒क्रुः प॑वमान॒ धीरा॑ः ।
व॒न्वन्नवा॑तः परि॒धीँरपो॑र्णु वी॒रेभि॒रश्वै॑र्म॒घवा॑ भवा नः ॥

पदपाठः

त्वया॑ । हि । नः॒ । पि॒तरः॑ । सो॒म॒ । पूर्वे॑ । कर्मा॑णि । च॒क्रुः । प॒व॒मा॒न॒ । धीराः॑ ।
व॒न्वन् । अवा॑तः । प॒रि॒ऽधीन् । अप॑ । ऊ॒र्णु॒ । वी॒रेभिः॑ । अश्वैः॑ । म॒घऽवा॑ । भ॒व॒ । नः॒ ॥

सायणभाष्यम्

हे पवमान पूयमानसोम धीराः कर्मणिकुशलाः प्राज्ञाः नोस्माकं पितरः पूर्वे पुरा- तनाः अंगिरसस्त्वया हिरवधारणे त्वयासहायेनैवकर्माणि अग्निष्टोमादीनि चक्रुः कृतवन्तः । किंच वन्वन् स्तोतॄन् संभजन् । यद्वा वनतिर्हिसार्थः । शत्रून् हिंसन् अवातः तैरभिगतस्त्वं वीरेभिर्वेगवद्भिः अश्वैः व्यापकैः परिधीन् परिधीयते एभिः सर्वमिति परिधयोराक्षसाः तान् अपोर्णु अपोर्णुहि अपच्छादय जहीतियावत् । ऊर्णोतेर्लोटिछान्दसोहेर्लुक् । एतादृश- स्त्वं नोस्माकं मघवा इन्द्रोभव भूयाः । पुत्रादियुक्तं धनं प्रयच्छेत्यर्थः ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः