मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९६, ऋक् १२

संहिता

यथाप॑वथा॒ मन॑वे वयो॒धा अ॑मित्र॒हा व॑रिवो॒विद्ध॒विष्मा॑न् ।
ए॒वा प॑वस्व॒ द्रवि॑णं॒ दधा॑न॒ इन्द्रे॒ सं ति॑ष्ठ ज॒नयायु॑धानि ॥

पदपाठः

यथा॑ । अप॑वथाः । मन॑वे । व॒यः॒ऽधाः । अ॒मि॒त्र॒ऽहा । व॒रि॒वः॒ऽवित् । ह॒विष्मा॑न् ।
ए॒व । प॒व॒स्व॒ । द्रवि॑णम् । दधा॑नः । इन्द्रे॑ । सम् । ति॒ष्ठ॒ । ज॒नय॑ । आयु॑धानि ॥

सायणभाष्यम्

हे सोम यथा पुरा त्वं मनवेराज्ञे वयोधाः अन्नस्यधाता तथा अमित्रहा शत्रूणांहन्ता वरिवोदित् धनस्यलंभयिता हविष्मान् पुरोडाशादियुक्तःसन् अपवथाः तस्मैधनादिकं प्रदातुंयथागच्छः एव एवमस्मभ्यमपि द्रविणं धनं दधानः प्रयच्छन् पवस्व अस्मदभिमुख- मागच्छ । किंच अस्माभिर्दीयमानस्त्वं इन्द्रेसन्तिष्ठ सम्यक् तिष्ठ । अपिच आयुधानि त्वदी- यानि जनय तस्मै प्रकाशय वाक्यभेदादनिघातः ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः