मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९६, ऋक् १३

संहिता

पव॑स्व सोम॒ मधु॑माँ ऋ॒तावा॒पो वसा॑नो॒ अधि॒ सानो॒ अव्ये॑ ।
अव॒ द्रोणा॑नि घृ॒तवा॑न्ति सीद म॒दिन्त॑मो मत्स॒र इ॑न्द्र॒पानः॑ ॥

पदपाठः

पव॑स्व । सो॒म॒ । मधु॑ऽमान् । ऋ॒तऽवा॑ । अ॒पः । वसा॑नः । अधि॑ । सानौ॑ । अव्ये॑ ।
अव॑ । द्रोणा॑नि । घृ॒तऽव॑न्ति । सी॒द॒ । म॒दिन्ऽत॑मः । म॒त्स॒रः । इ॒न्द्र॒ऽपानः॑ ॥

सायणभाष्यम्

हे सोम मधुमान् मदकररसोपेतः ऋतावा यज्ञवान् छन्दसीवनिपावितिवनिप् मत्वर्थी यः तादृशस्त्वं अपोवसतीवरीरेकधनाश्च वसानः आच्छादयन् अधि अधिकं सानौ समु- च्छ्रिते अव्ये अविमये पवित्रे पवस्व क्षर । ततोमदिन्तमः अतिशयेनमदकरः इन्द्रपानः इन्द्रेणपातव्योमत्सरोमादयिता सोमः घृतवन्ति उदकवन्ति द्रोणानि द्रोणकलशान् अव- सीद अवतिष्ठस्व ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः