मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९६, ऋक् १४

संहिता

वृ॒ष्टिं दि॒वः श॒तधा॑रः पवस्व सहस्र॒सा वा॑ज॒युर्दे॒ववी॑तौ ।
सं सिन्धु॑भिः क॒लशे॑ वावशा॒नः समु॒स्रिया॑भिः प्रति॒रन्न॒ आयु॑ः ॥

पदपाठः

वृ॒ष्टिम् । दि॒वः । श॒तऽधा॑रः । प॒व॒स्व॒ । स॒ह॒स्र॒ऽसाः । वा॒ज॒ऽयुः । दे॒वऽवी॑तौ ।
सम् । सिन्धु॑ऽभिः । क॒लशे॑ । वा॒व॒शा॒नः । सम् । उ॒स्रिया॑भिः । प्र॒ऽति॒रन् । नः॒ । आयुः॑ ॥

सायणभाष्यम्

हेसोम शतधारः बहुधोदकधारोपेतस्त्वं दिवोन्तरिक्षादादित्याद्वा वृष्टिंपवस्व कुरु । यद्वा शतधारः बहुधात्मीयधारोपेतस्त्वं दिवोद्योतमानात् पवित्रात् वृष्टिमविच्छिन्नधारां पवस्व पात्रेषुकुरु । कीदृशः देववीतौ देवानांवीतिः हविर्भक्षणं यस्मिन् सदेववीतिर्यज्ञः । तस्मिन् सहस्रसाः यजमानानां सहस्रस्य धनस्यदाता वाजयुः तेषामन्नंकामयमानस्त्वं सिन्धुभिः स्यन्दमानाभिः वसतीवरीभिः कलशेद्रोणाभिधानेसंवावशानः संगच्छस्व । तथा- त्वं नोस्माकमायुर्जीवनं प्रतिरन् वर्धयन् उस्रियाभिः गोविकारैः क्षीरादिभिश्च कलशे संग- च्छस्व ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः