मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९६, ऋक् १६

संहिता

स्वा॒यु॒धः सो॒तृभि॑ः पू॒यमा॑नो॒ऽभ्य॑र्ष॒ गुह्यं॒ चारु॒ नाम॑ ।
अ॒भि वाजं॒ सप्ति॑रिव श्रव॒स्याभि वा॒युम॒भि गा दे॑व सोम ॥

पदपाठः

सु॒ऽआ॒यु॒धः । सो॒तृऽभिः॑ । पू॒यमा॑नः । अ॒भि । अ॒र्ष॒ । गुह्य॑म् । चारु॑ । नाम॑ ।
अ॒भि । वाज॑म् । सप्तिः॑ऽइव । श्र॒व॒स्या । अ॒भि । वा॒युम् । अ॒भि । गाः । दे॒व॒ । सो॒म॒ ॥

सायणभाष्यम्

स्वायुधः शोभनायुधोपेतः । यद्वा यज्ञे स्फ्यकपालादीनि दशायुधानिसन्ति तद्वान् सोतृ भिरभिजुण्वद्भिः पूयमानस्त्वं गुह्यं गुहायांनिहितं चारु कमनीयंनाम त्वदीयं रसात्मकं- शरीरं स्तुतिभिः सहाभ्यर्ष कलशादीन्यभिगमय । किंच सप्तिरिव अश्वइव वर्तमानस्त्वं श्रवस्या । सुपांसुलुगिति सप्तम्याआजादेशः । अस्मदीयायामन्नेच्छायां वाजं अन्नमस्मभ्य मभिगमय । अपिच हेदेवस्तोतव्य हेसोम वायुं प्राणं जीवनं अभिगमय गाः पशूंश्च अस्म भ्यमभिगमय ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः