मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९६, ऋक् १८

संहिता

ऋषि॑मना॒ य ऋ॑षि॒कृत्स्व॒र्षाः स॒हस्र॑णीथः पद॒वीः क॑वी॒नाम् ।
तृ॒तीयं॒ धाम॑ महि॒षः सिषा॑स॒न्त्सोमो॑ वि॒राज॒मनु॑ राजति॒ ष्टुप् ॥

पदपाठः

ऋषि॑ऽमनाः । यः । ऋ॒षि॒ऽकृत् । स्वः॒ऽसाः । स॒हस्र॑ऽनीथः । प॒द॒ऽवीः । क॒वी॒नाम् ।
तृ॒तीय॑म् । धाम॑ । म॒हि॒षः । सिसा॑सन् । सोमः॑ । वि॒ऽराज॑म् । अनु॑ । रा॒ज॒ति॒ । स्तुप् ॥

सायणभाष्यम्

ऋषिमनाः सर्वदर्शनशीलमनस्कः अतएव ऋषिकृत् सर्वस्य दर्शनकर्ता प्रकाशनस्यकर्ता स्वर्षाः सर्वस्यसूर्यस्य वा संभक्ता सहस्रणीथः नीथा स्तुतिः बहुविधस्तुतिकः कवीनां क्रा- न्तप्रज्ञानांमध्ये पदवीः स्खलतांपदानां साधुत्वेन संयोजयिता य्ः सोमोविद्यते समहिषो महान् पूज्योवा सोमः तृतीयंधाम द्युलोकं सिषासन् संभक्तुमिच्छन् स्तुप् स्तूयमानःसन् विराजं विशेषेणराजन्तं दीप्यमानमिन्द्रं अनुराजति प्रकाशयति ॥ १८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः