मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९६, ऋक् १९

संहिता

च॒मू॒षच्छ्ये॒नः श॑कु॒नो वि॒भृत्वा॑ गोवि॒न्दुर्द्र॒प्स आयु॑धानि॒ बिभ्र॑त् ।
अ॒पामू॒र्मिं सच॑मानः समु॒द्रं तु॒रीयं॒ धाम॑ महि॒षो वि॑वक्ति ॥

पदपाठः

च॒मू॒ऽसत् । श्ये॒नः । श॒कु॒नः । वि॒ऽभृत्वा॑ । गो॒ऽवि॒न्दुः । द्र॒प्सः । आयु॑धानि । बिभ्र॑त् ।
अ॒पाम् । ऊ॒र्मिम् । सच॑मानः । स॒मु॒द्रम् । तु॒रीय॑म् । धाम॑ । म॒हि॒षः । वि॒व॒क्ति॒ ॥

सायणभाष्यम्

चमूषत् चमन्ति भक्षयंत्यत्रेति चम्वश्चमसाः तेषु सीदन् यद्वा चम्वौ अधिषवणफलके तयोर्वर्तमानः श्येनः शंसनीयः शकुनः शक्तः सामर्थ्यकारी विभृत्वा हरतेः आतोमनिन्नि- त्यादिनाक्वनिप् । पात्रेषु विहरणशीलः गोविन्दुः यजमानानां गवां लंभकः विन्दुरिच्छुरिति उप्रत्ययान्तत्वेननिपातितः द्रप्सः द्रवणशीलः आयुधानि स्फ्यकपालादीनि बिभ्रत् धारयन् अपामुदकानामूर्मि प्रेरकं समुद्रं अन्तरिक्षनामैतत् अन्तरिक्षलोकं सचमानः सेवमानः महि- षोमहान् यएवंविधः सोमः ससोमः तुरीयं चतुर्थंधाम चान्द्रमसंस्थानं विवक्ति सेवते । सूर्यलोकस्योपरि चंद्रमसोलोकोविद्यतेइति—यमःपृथिव्याअधिपतिः समावत्वित्यादिभिः चन्द्रमानक्षत्राणामधिपतिः समावत्वित्यन्तैर्मंत्रैर्ज्ञायते ॥ १९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः