पव॑स्वेन्दो॒ पव॑मानो॒ महो॑भि॒ः कनि॑क्रद॒त्परि॒ वारा॑ण्यर्ष ।
क्रीळ॑ञ्च॒म्वो॒३॒॑रा वि॑श पू॒यमा॑न॒ इन्द्रं॑ ते॒ रसो॑ मदि॒रो म॑मत्तु ॥
पव॑स्व । इ॒न्दो॒ इति॑ । पव॑मानः । महः॑ऽभिः । कनि॑क्रदत् । परि॑ । वारा॑णि । अ॒र्ष॒ ।
क्रीळ॑न् । च॒म्वोः॑ । आ । वि॒श॒ । पू॒यमा॑नः । इन्द्र॑म् । ते॒ । रसः॑ । म॒दि॒रः । म॒म॒त्तु॒ ॥
हे इन्दो सोम महोभिः पूजकैरृत्विग्भिः पवमानः पूयमानस्त्वं पवस्व । ततः कनि- क्रदत् भृशंशब्दंकुर्वन् वाराणि अवेर्वालानि पवित्राणि पर्यर्ष परिगच्छ । किंच पूयमानस्त्वं चम्वोरधिषवणफलकयोः क्रीळन् संक्रीडमानःसन् आविश पात्राणि प्रविश । अनन्तरं मदिरः मदकरस्ते त्वदीयोरसःइन्द्रं ममत्तु मोदयतु माद्यतेः बहुलंछन्दसीतिश्लुः ॥ २१ ॥