मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९६, ऋक् २२

संहिता

प्रास्य॒ धारा॑ बृह॒तीर॑सृग्रन्न॒क्तो गोभि॑ः क॒लशाँ॒ आ वि॑वेश ।
साम॑ कृ॒ण्वन्त्सा॑म॒न्यो॑ विप॒श्चित्क्रन्द॑न्नेत्य॒भि सख्यु॒र्न जा॒मिम् ॥

पदपाठः

प्र । अ॒स्य॒ । धाराः॑ । बृ॒ह॒तीः । अ॒सृ॒ग्र॒न् । अ॒क्तः । गोभिः॑ । क॒लशा॑न् । आ । वि॒वे॒श॒ ।
साम॑ । कृ॒ण्वन् । सा॒म॒न्यः॑ । वि॒पः॒ऽचित् । क्रन्द॑न् । ए॒ति॒ । अ॒भि । सख्युः॑ । न । जा॒मिम् ॥

सायणभाष्यम्

अस्य सोमस्य बृहतीर्बृहत्योमहत्योधाराः प्रासृग्रन् प्रसृज्यन्ते सृजेः कर्मार्थेलङि व्यत्य- येन झेरनादेशः बहुलंछन्दसीति रुडागमः । ततः सोयंसोमः गोभिर्गोविकारैः क्षीरादिभिः अक्तः सन् कलशान् द्रोणाभिधानान् आविवेश आविशति । साम सामानि कृण्वन् कुर्वन् सोमः सामन्यः सामगानकुशलः सुष्ठुशब्दायमानइत्यर्थः विपश्चित् सर्वंजानानः सोमः क्रन्दन् देवानाह्वयन् अभ्येति ग्रहादीनि त्वरया अभिगच्छति । तत्रदृष्टान्तः—सख्युर्न सख्युर्जामिं जायां यथा इतरोलंपटोवेगेनाभिगच्छति तद्वत् ॥ २२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०