मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९७, ऋक् २

संहिता

भ॒द्रा वस्त्रा॑ सम॒न्या॒३॒॑ वसा॑नो म॒हान्क॒विर्नि॒वच॑नानि॒ शंस॑न् ।
आ व॑च्यस्व च॒म्वो॑ः पू॒यमा॑नो विचक्ष॒णो जागृ॑विर्दे॒ववी॑तौ ॥

पदपाठः

भ॒द्रा । वस्त्रा॑ । स॒म॒न्या॑ । वसा॑नः । म॒हान् । क॒विः । नि॒ऽवच॑नानि । शंस॑न् ।
आ । व॒च्य॒स्व॒ । च॒म्वोः॑ । पू॒यमा॑नः । वि॒ऽच॒क्ष॒णः । जागृ॑विः । दे॒वऽवी॑तौ ॥

सायणभाष्यम्

भद्रा भद्राणि कल्याणानि समन्या समनमिति संग्रामनामतत्र साधुरिति यत् संग्रा- मयोग्यानि वस्त्रा वस्त्राणि आच्छादकानि तेजांसि वसानः आच्छादयन् महान् पूज्यः कविः क्रान्तदर्शी अतएव निवचनानि नितरांवक्तव्यानि ऋत्विक् कृतानि स्तोत्राणि शंसन् विचक्षणः विशेषेण सर्वस्यद्रष्टा जागृविर्जागरणशीलः सोमः त्वं देववीतौ देवानांवीतिर्भ- क्षणं यस्मिन्त्सदेववीतिर्यज्ञः तस्मिन् चम्वोरधिषवणफलकयोः आवच्यस्व पात्राण्याविश । वचिर्गत्यर्थः व्यत्ययेन श्यन् पूयमानः सन् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११