मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९७, ऋक् ३

संहिता

समु॑ प्रि॒यो मृ॑ज्यते॒ सानो॒ अव्ये॑ य॒शस्त॑रो य॒शसां॒ क्षैतो॑ अ॒स्मे ।
अ॒भि स्व॑र॒ धन्वा॑ पू॒यमा॑नो यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥

पदपाठः

सम् । ऊं॒ इति॑ । प्रि॒यः । मृ॒ज्य॒ते॒ । सानौ॑ । अव्ये॑ । य॒शःऽत॑रः । य॒शसा॑म् । क्षैतः॑ । अ॒स्मे इति॑ ।
अ॒भि । स्व॒र॒ । धन्व॑ । पू॒यमा॑नः । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

सायणभाष्यम्

यशसां यशस्विनांमध्ये यशस्तरः अतिशयेनयशस्वी क्षैतः क्षितौभवः प्रियः प्रीणयिता सोमः सानौ समुच्छ्रिते अव्ये अविमये पवित्रे अस्मे अस्मदर्थं संमृज्यते ऋत्विग्भिः परिपूयते । उ अवधारणे । पूयमानस्त्वं धन्वान्तरिक्षे अभिस्वर अभितः शब्दय यूयं पूजायां बहुवचनं हे सोम त्वं नोस्मान् स्वस्तिभिः कल्याणतमैः पालनैः सदा सर्वदा पात रक्षत पालयत ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११