मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९७, ऋक् ४

संहिता

प्र गा॑यता॒भ्य॑र्चाम दे॒वान्त्सोमं॑ हिनोत मह॒ते धना॑य ।
स्वा॒दुः प॑वाते॒ अति॒ वार॒मव्य॒मा सी॑दाति क॒लशं॑ देव॒युर्न॑ः ॥

पदपाठः

प्र । गा॒य॒त॒ । अ॒भि । अ॒र्चा॒म॒ । दे॒वान् । सोम॑म् । हि॒नो॒त॒ । म॒ह॒ते । धना॑य ।
स्वा॒दुः । प॒वा॒ते॒ । अति॑ । वार॑म् । अव्य॑म् । आ । सी॒दा॒ति॒ । क॒लश॑म् । दे॒व॒ऽयुः । नः॒ ॥

सायणभाष्यम्

हेस्तोतारः प्रगायत सोमं प्रकर्षेणाभिष्टुत । तथा देवान् अभ्यर्चाम अभ्यर्चत पुरुषव्य- त्ययः । यद्वा वयं देवानभिष्टुमः यूयं सोमंस्तुतेति । किंच महते महत् प्रभूतधनाय धनं प्राप्तुं सोमं हिनोत अभिषवार्थं प्रेरयत । क्रियार्थोपपदस्यचकर्मणिस्थानिनइति धनशब्दस्य चतुर्थी । ततः स्वादुः स्वादुकरः सोमः अव्यमविभवं वारं वालं पवित्रमतिपवाते अती- त्यपवते । किंच देवयुः देवान् कामयमानः नोस्मदीयः सोमः कलशं पात्रमासीदाति आसीदति प्रविशति । उभयत्रलेट्यडागमः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११