मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९७, ऋक् ५

संहिता

इन्दु॑र्दे॒वाना॒मुप॑ स॒ख्यमा॒यन्त्स॒हस्र॑धारः पवते॒ मदा॑य ।
नृभि॒ः स्तवा॑नो॒ अनु॒ धाम॒ पूर्व॒मग॒न्निन्द्रं॑ मह॒ते सौभ॑गाय ॥

पदपाठः

इन्दुः॑ । दे॒वाना॑म् । उप॑ । स॒ख्यम् । आ॒ऽयन् । स॒हस्र॑ऽधारः । प॒व॒ते॒ । मदा॑य ।
नृऽभिः॑ । स्तवा॑नः । अनु॑ । धाम॑ । पूर्व॑म् । अग॑न् । इन्द्र॑म् । म॒ह॒ते । सौभ॑गाय ॥

सायणभाष्यम्

देवानामिन्द्रादीनां सख्यं सखिभावं उपायन् उपगच्छन् सहस्रधारः बहुविधधारः इन्दुः सोमः मदाय देवानांमदार्थं पवते कलशादिषुक्षरति । नृभिः कर्मनेतृभिः स्तवानः स्तूयमानः सोमः पूर्वं पुरातनं धाम द्युलोकमनुगच्छति । तदेवाह—महते प्रभूताय सौभगाय सौभाग्याय इन्द्रं अगन् गच्छति । सोमे इन्द्रेण पीते सति यजमानानां महा- सौभाग्यं भवति खलु । अगन् गमेर्लुङि घसेति च्लेर्लुक् मोनोधातोरिति नत्वं ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११