मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९७, ऋक् ६

संहिता

स्तो॒त्रे रा॒ये हरि॑रर्षा पुना॒न इन्द्रं॒ मदो॑ गच्छतु ते॒ भरा॑य ।
दे॒वैर्या॑हि स॒रथं॒ राधो॒ अच्छा॑ यू॒यं पा॑त स्व॒स्तिभि॒ः सदा॑ नः ॥

पदपाठः

स्तो॒त्रे । रा॒ये । हरिः॑ । अ॒र्ष॒ । पु॒ना॒नः । इन्द्र॑म् । मदः॑ । ग॒च्छ॒तु॒ । ते॒ । भरा॑य ।
दे॒वैः । या॒हि॒ । स॒ऽरथ॑म् । राधः॑ । अच्छ॑ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

सायणभाष्यम्

हे सोम हरिर्हरितवर्णः पुनानः पूयमानस्त्वं स्तोत्रे अस्माभिः क्रियमाणेसति राये- धनार्थं अर्ष आगच्छ । ततस्ते त्वदीयोमदोप्रदकारोरसः भराय भृभर्त्सने । भर्त्सयन्ति शत्रू- नत्रयोद्धारइति भरःसंग्रामः । तदर्थमिन्द्रंगच्छतु । किंच सरथं देवैः समानरथमास्थाय राधः अच्छ अस्माकं धनार्थंयाहि आगच्छ । यूयं नोस्मान् स्वस्तिभिः सदा पात त्वं रक्ष ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२