मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९७, ऋक् ९

संहिता

स रं॑हत उरुगा॒यस्य॑ जू॒तिं वृथा॒ क्रीळ॑न्तं मिमते॒ न गावः॑ ।
प॒री॒ण॒सं कृ॑णुते ति॒ग्मशृ॑ङ्गो॒ दिवा॒ हरि॒र्ददृ॑शे॒ नक्त॑मृ॒ज्रः ॥

पदपाठः

सः । रं॒ह॒ते॒ । उ॒रु॒ऽगा॒यस्य॑ । जू॒तिम् । वृथा॑ । क्रीळ॑न्तम् । मि॒म॒ते॒ । न । गावः॑ ।
प॒री॒ण॒सम् । कृ॒णु॒ते॒ । ति॒ग्मऽशृ॑ङ्गः । दिवा॑ । हरिः॑ । ददृ॑शे । नक्त॑म् । ऋ॒ज्रः ॥

सायणभाष्यम्

ससोमः रंहते अतिशीघ्रं गच्छतीत्यर्थः । उरुगायस्य बहुभिःस्तुत्यस्यात्मनोजूतिं गति- मनुसरन् तंवृथा अनायासेन क्रीळंतं विहरन्तं गच्छन्तंसोमं गावः अन्येगन्तारः नमिमते नपरिच्छिन्दन्ति तमनुगन्तुं नशक्नुवन्तीत्यर्थः । किंच तिग्मशृंगः शॄणन्तिहिंसन्ति तमांसीति श्रुंगाणि तेजांसि तीक्ष्णतेजस्कः परीणसं बहुनामैतत् बहुविधतेजः कृणुते करोति अन्तरि- क्षे वर्तप्रानोयः सोमः दिवा अहनि हरिर्हरितवर्णः ददृशे दृश्यते नप्रकाशतेइत्यर्थः । नक्तं रात्रौतु ऋज्रः ऋजुगामी विस्पष्टः प्रकाशयुक्तोदृश्यते दृशेः कर्मणिलिटिरूपं ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२