मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९७, ऋक् १०

संहिता

इन्दु॑र्वा॒जी प॑वते॒ गोन्यो॑घा॒ इन्द्रे॒ सोम॒ः सह॒ इन्व॒न्मदा॑य ।
हन्ति॒ रक्षो॒ बाध॑ते॒ पर्यरा॑ती॒र्वरि॑वः कृ॒ण्वन्वृ॒जन॑स्य॒ राजा॑ ॥

पदपाठः

इन्दुः॑ । वा॒जी । प॒व॒ते॒ । गोऽन्यो॑घाः । इन्द्रे॑ । सोमः॑ । सह॑ । इन्व॑न् । मदा॑य ।
हन्ति॑ । रक्षः॑ । बाध॑ते । परि॑ । अरा॑तीः । वरि॑वः । कृ॒ण्वन् । वृ॒जन॑स्य । राजा॑ ॥

सायणभाष्यम्

इन्दुः क्षरणशीलः वाजी बलवान् गोन्योघाः गमनशीलनीचीनाग्ररससंघातः इन्द्रे स- होबलकररसं इन्वन् प्रेरयन् सोमः मदाय तस्यमदार्थं पवते क्षरति । किंच रक्षःकुलं हन्ति हिनस्ति । किंच अरातीः अरातीन् शत्रून्परिबाधते परितः संहरति । कीदृशः वरिवोवरणीयं धनं कृण्वन् स्तोतॄणां कुर्वन् वृजनस्य बलस्यराजा ईशितासोमइति ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२