मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९७, ऋक् १३

संहिता

वृषा॒ शोणो॑ अभि॒कनि॑क्रद॒द्गा न॒दय॑न्नेति पृथि॒वीमु॒त द्याम् ।
इन्द्र॑स्येव व॒ग्नुरा शृ॑ण्व आ॒जौ प्र॑चे॒तय॑न्नर्षति॒ वाच॒मेमाम् ॥

पदपाठः

वृषा॑ । शोणः॑ । अ॒भि॒ऽकनि॑क्रदत् । गाः । न॒दय॑न् । ए॒ति॒ । पृ॒थि॒वीम् । उ॒त । द्याम् ।
इन्द्र॑स्यऽइव । व॒ग्नुः । आ । शृ॒ण्वे॒ । आ॒जौ । प्र॒ऽचे॒तय॑न् । अ॒र्ष॒ति॒ । वाच॑म् । आ । इ॒माम् ॥

सायणभाष्यम्

शोणः शोणवर्णोवृषा कश्चिद्वृषभः गाः पशून् अभिकनिक्रदत् अभिलक्ष्य शब्दंकरोति । एवं गाः स्तुतीः विश्रयणार्थं पयसोदोग्ध्रीर्धेनूः वा अभिकनिक्रदत् अभिशब्दायमानः तदे- वाह नदयन् शब्दमुत्पादयन् सोमः पृथिवीं उतापिच द्यां एतौलोकौ एति गच्छति । किंच वग्नुः वाङ्नामैतत् तस्य वाक् सुशब्दः आजौ संग्रामे इन्द्रस्येव इन्द्रस्यशब्दइव आश्रृण्वे सर्वैः श्रूयते । ततः प्रचेतयन् आत्मानं सर्वेषां प्रज्ञापयन् इमां वाचमार्षति समं- ताद्गमयति उच्चैः शब्दायतेइत्यर्थः ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३